वांछित मन्त्र चुनें

इ॒हैव स्तं॒ मा वि यौ॑ष्टं॒ विश्व॒मायु॒र्व्य॑श्नुतम् । क्रीळ॑न्तौ पु॒त्रैर्नप्तृ॑भि॒र्मोद॑मानौ॒ स्वे गृ॒हे ॥

अंग्रेज़ी लिप्यंतरण

ihaiva stam mā vi yauṣṭaṁ viśvam āyur vy aśnutam | krīḻantau putrair naptṛbhir modamānau sve gṛhe ||

पद पाठ

इ॒ह । ए॒व । स्त॒म् । मा । वि । यौ॒ष्ट॒म् । विश्व॑म् । आयुः॑ । वि । अ॒श्नु॒त॒म् । क्रीळ॑न्तौ । पु॒त्रैः । नप्तृ॑ऽभिः । मोद॑मानौ । स्वे । गृ॒हे ॥ १०.८५.४२

ऋग्वेद » मण्डल:10» सूक्त:85» मन्त्र:42 | अष्टक:8» अध्याय:3» वर्ग:28» मन्त्र:2 | मण्डल:10» अनुवाक:7» मन्त्र:42


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इह-एव स्तम्) हे वधू और वर ! तुम दोनों इस गृहाश्रम में स्थिर रहो (मा वियौष्टम्) मत वियुक्त होओ (विश्वम्-आयुः) समग्र आयु को प्राप्त करो-भोगो (पुत्रैः-नप्तृभिः क्रीडन्तौ) पुत्र-पुत्रियों पौत्र-दौहित्रों के साथ खेलते हुए (स्वे गृहे मोदमानौ) अपने घर में हर्ष करते हुए रहो ॥४२॥
भावार्थभाषाः - गृहस्थ को परस्पर गृहस्थ का पालन करते हुए परस्पर मेल से रहते हुए पुत्र-पौत्रादि आदि के साथ आनन्द करते हुए अपने घर में रहना चहिये ॥४२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इह-एव स्तम्) हे वधूवरौ युवामिह गृहाश्रमे स्थिरौ भवतं (मा वियौष्टम्) न वियुक्तौ भवतं (विश्वम्-आयुः-व्यश्नुतम्) सर्वमायुः प्राप्नुतं (पुत्रैः नप्तृभिः क्रीडन्तौ) पुत्रदुहितृभिः पौत्रैर्दौहित्रैः सह क्रीडां कुर्वन्तौ (स्वे गृहे मोदमानौ) स्वे गृहे हृष्यन्तौ भवेतम् ॥४२॥